दशावतारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशावतारः, पुं, (दश अवतारा यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥ तस्य दशावतारा यथा, -- मत्स्यः १ कूर्म्मः २ वराहः ३ नृसिंहः ४ वामनः ५ जामदग्न्यः ६ रामः ७ कृष्णः ८ बुद्धः ९ कल्की १० । इति वराहपुराणम् ॥ अपि च । “धर्म्मान्नारायणस्यांशः संभूतश्चाक्षुषेऽन्तरे । यज्ञञ्च वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे ॥ प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत् पुरोहितः । युगाख्यायाञ्च तुर्य्यान्तु आपन्नेषु सुरेषु वै ॥ संभूतः स समुद्रान्ते हिरण्यकशिपोर्वधे । द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः ॥ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति । तृतीये वामनस्यार्थे घर्म्मेण तु पुरोधसा ॥ एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयो द्विजाः । मानुष्याः सप्त येऽन्ये तु शापजास्तान्निबोधत ॥ त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह । नष्टे धर्म्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥ पञ्चमः पञ्चदश्यान्तु त्रेतायां सम्बभूव ह । मान्धाता चक्रवर्त्ती तु तस्यौतथ्यः पुरःसरः ॥ एकोनविंश्यां त्रेतायां सर्व्वक्षत्त्रान्तकृद्विभुः । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥ चतुर्व्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ अष्टमे द्बापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्तथा जज्ञे जातूकर्णपुरःसरः ॥ कर्त्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् । बुद्धो नवमके जज्ञे तपसा पुष्करेक्षणः ॥ देवक्यां वसुदेवेन द्बैपायनपुरःसरः । तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति ॥ कल्की विष्णुयशा नाम पाराशर्य्यपुरःसरः । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरसरः ॥” इति मत्स्यपुराणम् ॥
