सामग्री पर जाएँ

दशाश्वमेध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाश्वमेध(धिक)¦ न॰ काशीस्थतीर्थभेदे तनमहात्म्या-दिकथा काशी॰ ख॰

५२ अ॰ उक्ता यथा(
“साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः। इयाज दशभिः काश्यामश्वमेधैर्महामखैः। अद्यापिहोमधूमोघैर्य्यद्व्याप्तं गगनान्तरम्। तदा प्रभृति नै-वेह नीलिमानं जहात्यदः। तीर्थं दशाश्वमेधाख्यंप्रथितं जगतीतले। तदा प्रभृति तत्रासीद्वाराणस्यांशुभपदम्। पुरा रुद्रसरो नाम तत्तीर्थं कलसोद्भव!। दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात्। स्वर्द्धुन्यथततः प्राप्ता भगीरथसमागमात्। अतीव पुण्यवज्जातमतस्तीर्थमनुत्तमम्। विधिर्दशाश्वमेधेशं लिङ्गं संस्थाप्यतत्र वै। स्थितवान् न गतोऽद्यापि क्वापि काशींविहाय तु। राज्ञो धर्मरतेस्तस्य छिद्रं नाप चकिञ्चन। अतः पुरारेः पुरतो विदित्वा किं वदेद्विधिः। क्षेत्रप्रभावं विज्ञाय ध्यायन् विश्वेश्वरं विभुम्। ब्रह्मेश्वरंच संस्थाप्य विधिस्तत्रैव संस्थितः। परा तनुरियंकाशी विश्वेशस्येति निश्चितम्। अस्याः संसेवना-च्छम्भुर्न कुप्यति पुरा मयि। कः प्राप्य काशीं दुर्मेधाःपुनस्त्यक्तुमिहेहते। अनेकजन्मजनितकर्म्मनिर्मूल-लक्षणाम्। विश्वसन्तापसंहर्तुः स्थाने विश्वपतेस्तनुः। सन्ताप्यते परं काश्याविश्लेषजमहाग्निना। प्राप्यकाशीं त्यजेद्यस्तु समस्ताघौघनाशनीम्। नृपशुःस परिज्ञेयो महासौख्यपराङमुखः। निर्वाणलक्ष्मींयः काङ्क्षेद्भञ्जन् संसारदुर्गतिम्। तेन काशी नसन्त्याज्या यद्याप्तैशादनुग्रहात्। यः काशीं संपरि-त्यज्य गच्छेदन्थत्र दुर्मतिः। तस्य हस्तलाद्गच्छेच्चतुर्वर्गफलोदयः। निवर्हणीमघौघस्य सुपुण्यपरिवृंहि-[Page3508-a+ 38] णीम्। कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्। सत्यलोके कृतं सौख्यं क्व सौख्यं वैष्णवे पदे। यत्सौख्यं लभ्यते काश्यां निमेषार्द्धनिषेवणात्। वारा-णसीगुणगणान्निर्णीय द्रुहिणस्त्विति। व्यावृत्यमन्दरगिरिं न पुनः प्रत्यगान्मुने!। स्कन्द उवाच। मित्रावरुणयोः पुत्र। महिमानं ब्रवीमि ते। काश्यांदशाश्वमेधस्य सर्वतीर्थशिरोमणेः। दशाश्वमेधिकं प्राप्यसर्वतीर्थोत्तमोत्तमम्। यत् किञ्चित् क्रियते कर्म तद-क्षयमिहेरितम्। स्नानं दानं तपो होमः स्वाध्यायोदेवतार्चनम्। सन्ध्योपास्तिस्तर्पणञ्च श्राद्धं पितृसम-र्च्चनम्। दशाश्वमेधिके तीर्थे सकृत् स्नात्वा नरोत्तमः। दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते। ज्यैष्ठे मासिसिते पक्षे प्राप्य प्रतिपदं तिथिम्। दशाश्वमेधिकेस्नात्वा मुव्यते जन्मपातकात्। ज्यैष्ठशुक्लद्वितीयायांस्नात्वा रुद्रसरोवरे। जन्मद्वयकृतं पापं तत्क्षणादेवमुञ्चति। एवं सर्वासु तिथिषु क्रमात् स्नायान्नरोत्तमः। आ शुक्लदशमीं यावद्दशजन्माघमुत्सृजेत्। तिथिं दश-हरां प्राप्य दशजन्माघहारिणीम्। दशाश्चमेधिकेस्नातीयामीं पश्येन्न यातनाम्। लिङ्गं दशाश्वमेधेशंदृष्ट्वा दशहरातिथौ। दशजन्मार्जितैः पापैस्त्यज्यतेनात्र संशयः। स्नातो दशहारायां यः पूजयेल्लिङ्ग-सुत्तमम्। भक्त्या दशाश्वमेधेशं न त गर्भदशा स्पृशेत्। ज्यैष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः। कुर्वन्वैवार्षिकीं यात्रां न विघ्नैरभिभूयते। दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते। दशाश्वमेधे तन्नूनं स्नात्वा दशहरा-तिथौ। स्वर्द्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम्। न दुर्द्दशामवाप्नोति पुमान् पुण्यतमः क्वचित्। यत्काश्यां दक्षिणद्वारमन्तर्गेहस्य कीर्त्त्यते। तत्र ब्रह्मेश्वरंदृष्ट्वा ब्रह्मलोके महीयते। इति ब्राह्मणवेशेन वारा-णस्यां महाधिया। द्रुहिणेन स्थितं तावद्यावद्विश्वेरा-गमः। दिवोदासीऽपि राजेन्द्रो वृद्धब्राह्मणरूपिणे। ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकारयत्। ब्रहेम्श्वरसमीपे तु ब्रह्मशाला मनोहरा। ब्रह्मा तत्रावसद्ध्योमब्रह्मथीषैर्निनादयन्। ”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाश्वमेध/ दशा n. the तीर्थof the 10 horse-sacrifices , iii , 5084 Reva1Kh. ccviii and cclvii Ka1s3i1Kh. lii S3ambhMa1h. v

दशाश्वमेध/ दशा n. See. दाश्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

DAŚĀŚVAMEDHA : A holy place situated in Kurukṣetra. It is stated in Mahābhārata, Vana Parva, Chapter 83, Stanza 14, that those who bathe in this holy place will obtain the fruits of giving a gift of thousand cows.


_______________________________
*4th word in right half of page 205 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दशाश्वमेध&oldid=430688" इत्यस्माद् प्रतिप्राप्तम्