दशौषधकाल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशौषधकाल¦ पु॰ दशविध औषधकालः शा॰ क॰। दशविधेऔषधकाले स च सुश्रुते उत्तरतन्त्रे उक्तो यथा
“अत ऊर्द्ध्वं दशौषधकालान्वक्ष्यामः। तत्र
“निर्भक्तंप्राग्भक्तमधोभक्तं मध्येभक्तभन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः। तत्र निर्भक्तं
१ केवलमेवौषधमुपयुज्यते
१ । बीर्य्याधिकंभवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव। तद्बालवृद्धयुवतीमृदवोऽथ पीत्वा ग्लानिं परां सभुप-यान्ति बलक्षयञ्च। प्राग्भक्तं
२ नाम् यन्मु प्राग्भक्त-[Page3509-a+ 38] स्योपयुज्यते। शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति। प्राग्भक्तसेवनमथोवलमादंधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः। अधोभक्तं
३ नाम यद्भुक्तान्ते पीयते। पीतं यदन्नमुपयुज्यतदूर्द्ध्वकाले हन्याद्गदान् वहुविधांश्च बलं दधाति। मध्येभक्तं
४ नाम यन्मध्ये भक्तस्य पीयते। मध्ये तुपीतमुपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्तिरोगाः। अन्तराभक्तं
६ नाम यदन्तरा पीयते पूर्बापर-योर्भक्तयोः। हृद्यं मनोबलकरन्त्वथ दीपनीयं पथ्यञ्चसम्भवति चान्तरभक्तमेतत्। सभक्तं
७ नामौषधेषु यत्-साध्यते भक्तम्। पथ्यंसभक्तमबलाबलयोर्हि नित्यं तद्द्वे-षिणामपि तथां शिशुवृद्धयोश्च। सामुद्गं
८ नाम यद्भक्त-स्यादावन्ते च पीयते। दोषे द्विधा प्रतिसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु। मुहुर्मुहुर्न्नाम
८ सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते। श्वासेमुहुर्मुहुरतिपसृते च कासे हिक्कावमीषु च वदन्त्युप्र-योज्यमेतत्। ग्रामं
९ नामकबलनम् (फलमस्य मुद्रितपुस्तकेपतितम्) ग्रासान्तरं
१० नाम यत्पिण्डव्यामिश्रम्। ग्रासा-न्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्चलेहान्। एवमेते दशौषधकालाः”।
