सामग्री पर जाएँ

दश्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दश्¦ त्रि॰ कस्मिंश्चिदुपपदे दृश--क्विन् झलि पदान्ते च कुः।

१ तत्तत्पदार्थदर्शके
“वायुभक्षो दिवा तिष्ठन् रात्रिंनीत्वाप्सु सूर्यदृक्” याज्ञ॰
“ऐन्द्रद्युम्ने! यज्ञदृशा-विहावां विवक्षू वै जनकेन्द्रं दिदृक्षू” भा॰ व॰

१०

६२

४ श्लो॰अनुपपदेऽपि क्विन्।

२ द्रष्टरि
“दृग्दर्शनशक्त्योरेकात्मते-वास्मिता” पात॰ सू॰। भावे क्विन्।

३ दर्शने

४ ज्ञानमात्रेच स्त्री
“प्रतिबन्धदृशः प्रतिवद्धज्ञानमनुमानम्” सा॰ सू॰
“प्रतिबन्धोव्याप्तिर्व्याप्तिदर्शनात् व्यापकज्ञानमनुमानम्” भाष्यम्। करणे क्विन्।

५ नेत्रे स्त्री
“दृशा दग्धं मन-सिजं जीवयन्ति दृशैव याः” सा॰ द॰।
“क्षत्रकोपदह-नार्चिषं ततः सन्दधे दृशमुदग्रतारकाम्” रघुः

६ द्वित्व-संख्यायाञ्च।

"https://sa.wiktionary.org/w/index.php?title=दश्&oldid=287824" इत्यस्माद् प्रतिप्राप्तम्