दस्युः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दस्युः, पुं, (दस्यति परस्वान् नाशयतीति । दस + “यजिमनिशुन्धिदसिजनिभ्यो युच् ।” उणां । ३ । २० । इति युच् । बाहुलकादनादेशाभावः ।) चौरः । (यथा, मनुः । ७ । १४३ । “विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥”) रिपुः । (यथा, ऋग्वेदे । २ । १२ । १० । “यः शर्द्धते नानुददाति शृध्यां यो दस्योर्हन्ता- स जनास इन्द्रः ॥” “दस्योरुपक्षपयितुः शत्रोर्हन्ता घातकः ॥” इति तद्भाष्ये सायनः ॥) महासाहसिकः । इति शब्द- रत्नावली ॥ असुरः । यथा, तत्रैव । ९ । ४७ । २ । “कृतानीदस्य कर्त्वा चेतंते दस्युतर्हणा ॥” “दस्युतर्हणा दस्यूनामसुराणां तर्हणा ॥” इति तद्भाष्ये सायनः ॥ कर्म्मवज्जिते, त्रि । यथा, ऋग्वेदे । ६ । २४ । ८ । “न वीळवे नमते न स्थिराय न शर्धते दस्यु- जूताय स्तवान् ॥” “शर्धते उत्सहमानाय दस्युजूताय कर्म्म- वर्ज्जितैः प्रेरिताय ।” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दस्युः [dasyuḥ], [दस्-युच्]
N. of a class of evil beings or demons, enemies of gods and men, and slain by Indra, (mostly Vedic in this sense).
An outcast, a Hindu who has become an outcast by neglect of the essential rites; cf. Ms.5.131;1.45; दस्यूनां दीयतामेष साध्वद्य पुरुषा- धमः Mb.12.173.2.
A thief, robber, bandit; नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति Bhāg.7.15.46; पात्रीकृतो दस्यु- रिवासि येन Ś.5.2; R.9.53; Ms.7 143.
A villain, miscreant; दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् Māl. 5.28.
A desperado, violator, oppressor.
