सामग्री पर जाएँ

दस्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दस्रः, पुं, (दस्यति उत्क्षिपति पांशूनिति । दस उत्क्षेपे + “स्फायितञ्जीति ।” उणां । २ । १३ । इति रक् ।) खरः । (दस्यति रोगान् क्षिप- तीति ।) अश्विनीसुतः । इति मेदिनी । रे, ४७ ॥ (यथा, हरिवंशे । ९ । ५३ । “नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनीसुतौ ॥” दर्शनीये, त्रि । यथा, ऋग्वेदे । ६ । ६९ । ७ । “इन्द्राविष्णू पिवतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ॥” “दस्रा हे दर्शनीयाविन्द्राविष्णू ॥” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=दस्रः&oldid=139902" इत्यस्माद् प्रतिप्राप्तम्