सामग्री पर जाएँ

दस्रौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दस्रौ, पुं, (दस्यतः क्षिपतो रोगानिति । दस + “स्फायितञ्चीति ।” उणां । २ । १३ । इति रक् ।) अश्विनौ । इत्यमरः । १ । १ । ५४ ॥ द्विवचनान्तोऽयं शब्दः ॥ (यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम् । सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ॥ “देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः । अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् ॥ वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः । सोमान्निपतितश्चन्द्रस्ताभ्यामेव मुखीकृतः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दस्रौ पुं-द्वि।

अश्विनीकुमारौ

समानार्थक:स्वर्वैद्य,अश्विनीसुत,नासत्यौ,अश्विनौ,दस्रौ,आश्विनेयौ

1।1।51।2।3

सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ। नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ॥

स्वामी : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

"https://sa.wiktionary.org/w/index.php?title=दस्रौ&oldid=182516" इत्यस्माद् प्रतिप्राप्तम्