सामग्री पर जाएँ

दहनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दहनः, पुं, (दहतीति । दह दाहे + ल्युः ।) अग्निः । (यथा, आर्य्यासप्तशत्याम् । ३०४ । “धूमैरश्रु निपातय दह शिखया दहन ! मलि- नयाङ्गारैः । जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥” तृतीयसंख्या । यथा, सूर्य्यसिद्धान्ते । १२ । ८५ । “खत्रयाब्धिदहनाः कक्षा तु हिमदीधितेः ॥” कृत्तिकानक्षत्रस्य अधिष्ठातृदेवत्वात् कृत्तिका- नक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “दहनविधिशताख्या मैत्रभं सौम्यवारे ॥”) चित्रकः । भल्लातकः । दुष्टचेतसि, त्रि । इति मेदिनी । ने, ७५ ॥ (दह्यते कामाग्निना इति । दह + ल्युट् ।) कपोतः । इति राजनिर्घण्टः ॥ (रुद्रविशेषः । यथा, महाभारते । १ । ६६ । ३ । “दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥” स्कन्दस्यानुचरविशेषः । यथा तत्रैव । ९ । ४५ । ३३ । “दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ । अंशोऽप्युपाचरन् पञ्च ददौ स्कन्दाय धीमते ॥” दाहकमात्रे, त्रि । यथा, भागवते । ८ । ७ । २१ । “त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्बिषात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दहनः&oldid=139910" इत्यस्माद् प्रतिप्राप्तम्