सामग्री पर जाएँ

दह्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दह्रः, पुं, (दहतीति । दह + “स्फायितञ्चीति ।” उणां २ । १३ । इति रक् ।) अग्निः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ दावानलः । इत्युणादिकोषः ॥ नरकम् । वरुणः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ हृदयाकाशम् । यथा, श्रीभागवते । ३ । १२ । ४४ । “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथैव च । एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥” “दह्रतः हृदयाकाशात् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ * ॥ जठरम् । यथा, तत्रैव । ४ । १ । ३६ । “पुलस्त्योऽजनयत् पत्न्यामगस्त्यञ्च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥” “दह्राग्निः जठराग्निः ।” इति श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=दह्रः&oldid=139925" इत्यस्माद् प्रतिप्राप्तम्