सामग्री पर जाएँ

दाक्षिणात्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दाक्षिणात्यः, त्रि, (दक्षिणा दक्षिणस्यां दिशि भवः । दक्षिणा + “दक्षिणापश्चात्पुरसस्त्यक् ।” ४ । २ । ९८ । इति त्यक् ।) दक्षिणदेशोद्भवः । इति शब्दार्थकल्पतरुः ॥ (यथा, महाभारते । ३ । २३६ । ३ । “प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्य- वासिनः ॥”) नारिकेलः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=दाक्षिणात्यः&oldid=139940" इत्यस्माद् प्रतिप्राप्तम्