दाडिमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दाडिमः, त्रि, (दलनमिति दालः । तेन निर्वृत्तः । भावप्रत्ययन्तादिमप् । डलयोरेकत्वम् ।) एला । इति मेदिनी मे, ४४ ॥ फलवृक्षविशेषः । (यथा, देवीभागवते । १ । १२ । ८ । “दाडिमैर्नारिकेलैश्च माधवीमण्डपावृतम् ॥”) तत्पर्य्यायः । करकः २ । इत्यमरः । २ । ४ । ६५ ॥ पिण्डपुष्पः ३ दाडिम्बः ४ पर्व्वरुक् ५ स्वाद्बम्लः ६ पिण्डीरः ७ फलशाडवः ८ शुकवल्लभः ९ । इति त्रिकाण्डशेषः ॥ रक्तपुष्पः १० । इति रत्नमाला ॥ दाडिमीसारः ११ कुट्टिमः १२ फलसाडवः १३ मूर्द्धन्यषमध्योऽपि । रक्तबीजः १४ सुफलः १५ दन्तबीजकः १६ मधुबीजः १७ कुचफलः १८ रोचनः १९ मणिबीजः २० कल्कफलः २१ वृत्तफलः २२ सुनीलः २३ नीलपत्रः २४ । अस्य गुणाः । मधुराम्लत्वम् । कषायत्वम् । कासवात- कफश्रमपित्तविनाशित्वम् । ग्राहित्वम् । दीप- नत्वम् । लघुत्वम् । उष्णत्वम् । शीतलत्वम् । रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् । अम्लत्वम् । श्वासारुचितृष्णानाशित्वम् । कण्ठ- शोघनत्वम् । कफपित्ताविरोधित्वञ्च ॥ * ॥ “द्बिविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च । मधुरं तत् त्रिदोषघ्नमम्लं वातकफापहम् ॥” इति राजवल्लभः ॥ तापहारि मधुरं लघु पथ्यम् । इति राज- निर्घण्टः ॥ “तत्फलं त्रिविधं स्वादु स्वाद्बम्लं केवलाम्लकम् । तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम् ॥ हृत्कण्ठमुखरोगघ्नं तर्पणं शुक्रलं लघु । कषायानुरसं ग्राहि स्निग्धं मेदोबलावहम् ॥ स्वाद्वम्लं दीपनं रुच्यं किञ्चित् पित्तकरं लघु । अम्लन्तु पित्तजनकमम्लं वातकफापहम् ॥” इति भावप्रकाशः ॥
