दात्यूहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दात्यूहः, पुं स्त्री, (दाप् लवने + क्तिन् । दातिं मारणं ऊहते इति । दाति + ऊह + अण् । यद्वा, दो अवखण्डने क्तिन् । दितिं वहतीति । वह + क + ऊट् । दित्यूहः । ततः स्वार्थे अण् । ततः “देविका शिंशपादित्यवाहदीर्घसत्रश्रेयसामात् ॥” ७ । ३ । १ । इति आत्वम् ।) पक्षिविशेषः । डाउक इति भाषा । तत्पर्य्यायः । कालकण्ठकः २ । इत्यमरः । २ । ५ । २१ ॥ अत्यूहः ३ दात्यौहः ४ कालकण्ठः ५ मासङ्गः ६ शितिकण्ठः ७ कचा- टुरः ८ । इति शब्दरत्नावली ॥ काकमद्गुः ९ । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ५ । १२ । “सारसं रज्जुबालञ्च दात्यूहं शुकसारिके ॥” (अस्य गुणा यथा, -- “दात्यूहो मरुतश्च नाशनकरो वृष्योऽतिशुक्रप्रदः श्रेष्ठः सर्व्वगुणः श्रमीपशमनः तुष्टिप्रदो वातहा ॥” इति हारीते प्रथमेस्थाने एकादशेऽध्याये ॥) “प्रावृट्काले सुखी भूत्वा को वा कुत्र न गच्छति । इति वदति दात्यूहः को वा को वा क्व वा क्व वा ॥” इत्युद्भटः ॥) जलकाकः । इति राजनिर्घण्टः ॥ चातकः । इति मेदिनी । हे, १७ ॥ मेघः । इति शब्द- रत्नावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दात्यूहः [dātyūhḥ], 1 The gallinule; दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितम् Māl.9.7.
The Chātaka bird; Bhāg. 3.15.18.
A cloud.
A water-crow. (Written also दात्यौह).
