सामग्री पर जाएँ

दात्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दात्रम्, क्ली, (द्यति दाति वानेनेति । दो अवखण्डने दा लवने वा + “दाम्नीशसेति ।” ३ । २ । १८२ । इति ष्ट्रन् । दादिभ्यश्छन्दसीति त्रन् वा ।) अस्त्रविशेषः । इति भरतः ॥ दा इति कास्त्या इति च भाषा । तत्पर्य्यायः । लवित्रम् २ । इत्यमरः । २ । ९ । १३ ॥ खड्गीकम् ३ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । ५ । १५४ । ७ । “सशूर्पपिटकाः सर्व्वे सदात्राङ्कुशतोमराः ॥” भावे त्रन् । दानम् । यथा, ऋग्वेदे । १ । ११६ । ६ । “तद् वां दात्रं महिकीर्त्तेन्यम्” । “तद्दात्रं दानम् महि महदतिगम्भीरम् ।” इति तदभाष्ये सायनः ॥ दानकर्त्तरि, त्रि । यथा, वाजसनेयसंहितायाम् । १० । ६ । “सोमस्य दात्रमसि ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दात्रम् [dātram], 1 An instrument of cutting, a sort of sickle or knife; दात्रैश्छिन्दन् क्वचित् क्वचित् Rām.2.8.7; Mb.12. 228.6.

Ved. A share, possession.

A gift, donation.

"https://sa.wiktionary.org/w/index.php?title=दात्रम्&oldid=288856" इत्यस्माद् प्रतिप्राप्तम्