दानधर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दानधर्म्मः, पुं, (दानाख्यो धर्म्मः दानरूपो धर्म्मो वा मध्यलोपिसमासः ।) दानस्य फलम् । यथा, ब्रह्मोवाच । “अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम् । अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् ॥ दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् । न्यायेनोपार्ज्जयेद्वित्तं दानभोगफलञ्च तत् ॥ अध्यापनं याजनञ्च वृत्तमाहुः प्रतिग्रहम् । कुसीदं कृषिबाणिज्यं क्षत्त्रवृत्तोऽथ चार्ज्जयेत् ॥ यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम् । नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ॥ अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य- कम् ॥ यत्तु पापोपशान्त्ये च दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते । दानं तत् काम्यमाख्यातमृषिभिर्धर्म्मचिन्तकैः ॥ ईश्वरप्रीणनार्थाय ब्रह्मवित्सु प्रदीयते । यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति । म्रियमाणेषु विप्रेषु ब्रह्महा स तु गर्हितः ॥” इति गारुडे दानघर्म्मनाम ५१ अध्यायः ॥ * ॥ अन्यत् महाभारते शान्तिपर्व्वणि द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दानधर्म्म¦ पु॰ दानरूपो धर्मः। दानात्मके धर्मे स च भारतेआनुशासनपर्वणि
५७ अध्यायावधिषु
६९ अध्यायान्तेषुविस्तरेणोक्तः। अन्यश्च
“अथातः संप्रवक्ष्यामि दानधर्म-मनुत्तमम्। अर्थानामुचिते पात्रे श्रद्धया प्रति-पादनम्। दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम्। न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत्। अध्यापनं याज-नञ्च वृत्तिर्विप्रे प्रतिग्रहः। रक्षणं विजयश्चैव क्षत्रवृत्ति-रुदाहृता। कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा। यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम्। नित्यं
१ नैमित्तिकं
२ काम्यं
३ विमलं
४ दानमीरितम्। अहन्यहनियत् किञ्चिद्दीयतेऽनुपकारिणे। अनुद्दिश्य फलं तत् स्यात्ब्राह्मणाय तु नित्यकम्
१ । यत्तु पापोपशान्त्यै च दीयतेविदुषां करे। नैमित्तिकं
२ तदुद्दिष्टं दानं सद्भिरनुष्ठि-तम्। अषत्यविजयैश्चर्य्यस्वर्गार्थं यत् प्रदीयते। दानंतत् काम्य (
३ ) माख्यातमृषिभिर्धर्मचिन्तकैः। ईश्वरप्रीण-नार्थाय ब्रह्मवित्सु प्रदीयते। चेतसा सत्वयुक्तेन दानंतत् विमलं
४ स्मृतम्
“इत्युपक्रम्य गारुडे
५१ अ॰ उक्तः।
“दानधर्मात् परोधर्मो भूतानां नेह विद्यते” तत्रैवाध्याये
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दानधर्म्म¦ m. (-र्म्मः)
1. Almsgiving, charity.
2. The rules for making donations. E. दान, and धर्म्म virtue.
