दानपतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दानपतिः, पुं, (दाने पतिः श्रेष्ठः ।) सततदाता । इति जटाधरः ॥ (यथा, महाभारते । ५ । ११९ । २२ । “जातो दानपतिः पुत्त्रस्त्वया शूरस्तथापरः ॥”) अक्रूरः । इति श्रीभागवतम् ॥ (यथा, हरि- वंशे । ७८ । ८४ । “गच्छ दानपते ! क्षिप्रं ताविहानयितुं व्रजात् । नन्दगोपञ्च गोपांश्च करदान् मम शासनात् ॥” दैत्यभेदः । यथा, हरिवंशे । २३२ । ७ । “सहस्रपादः सुमुखः कृष्णश्चैव महासुरः । रणोत्कटो दानपतिः शैलकम्पी कुलाकुलः ॥”)
