सामग्री पर जाएँ

दानफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानफलम्, क्ली, (दानस्य फलम्) दानजन्यफलम् । तद्बिवरणं यथा, -- “गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः । तदनन्तफलं विद्धि अवस्थात्रितये नृप ! ॥ तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव च । नृप ! दानन्तु तत् सर्व्वं भुङ्क्ते गर्भस्थ एव तु ॥ ईर्षामन्युमनाश्चैव दम्भार्थं चार्थकारणात् । यो ददाति द्विजातिभ्यः स बाल्ये तु तदश्नुते ॥ वैश्यदेवविहीनञ्च सन्ध्योपासनवर्ज्जितम् । यद्दानं दीयते तस्मै वृद्धकाले तदश्नुते ॥ वृथा जन्मानि चत्वारि वृथा दानानि षोडश । तान्यहं संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥ अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा । परपाकं सदाश्नन्ति परतापरताश्च ये ॥ देवपितृविहीनं यत् ईश्वरेभ्यः सदोषतः । दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥ अन्यायोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्त्रे च स्तेनाय पतिताय च ॥ कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्बिषे । याचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥ परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र ! वृथादानानि षोडश ॥” इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा- ध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानफल¦ न॰

६ त॰। दानजन्ये फलभेदे तत्र दानभेदे कति-चित् फलभेदा वह्नि॰ पु॰ उक्ता यथा
“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः। तद-नन्तफलं विद्धि अवस्थात्रितये नृप!। तमोवृतस्तु योदद्यात् भयात् क्रोधात्तथैव च। नृप! दानन्तु तत् सर्वंभुङक्ते गर्भस्थ एव तु। ईर्ष्यामन्युमनाश्चैव दम्भार्थंचार्थकारणात्। यो ददाति द्विजातिभ्यः स वाल्ये तुतदश्रुते। वैश्वदेवविहीनञ्च सन्ध्योपासनवर्जितम्। यद्दान दीयते तस्मै वृद्धकाले तदश्नुते। वृथाजन्मानि[Page3542-a+ 38] चत्वारि वृथा दानानि षोडश। तान्यहं संप्रवक्ष्यामियथावदनुपूर्वशः। अपुत्रस्य

१ वृथाजन्म धर्मबाह्या नराः

२ सदा। परपाकं सदाश्नन्ति

३ परतापरताश्च

४ ये। देवपितृविहीनं

१ यत् ईश्वरेभ्यः स्वदोषतः

२ । दत्त्वानुकींर्त-नाच्चैव

३ वेदाग्निव्रतत्यागिने

४ । अन्यायोपार्जितं दानं

५ व्यर्थं व्रह्महणे

६ तथा। गुरुवेऽनृतवक्ते

७ यत् स्तेनाय

८ पतिताय

९ च। कृतघ्नाय

१० च यद्दत्तं सर्वदा व्रह्मवि-द्विषे

११ । याचकाया

१२ च सर्वस्य वृषल्याः पतये

१३ तथा। परिचारकाय

१४ भृत्याय

१५ सर्वत्र पिशुनाय

१६ च। इत्येतानि तु राजेन्द्र! वृथा दानानिं षोडश”।

"https://sa.wiktionary.org/w/index.php?title=दानफल&oldid=289136" इत्यस्माद् प्रतिप्राप्तम्