सामग्री पर जाएँ

दानफलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानफलम्, क्ली, (दानस्य फलम्) दानजन्यफलम् । तद्बिवरणं यथा, -- “गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः । तदनन्तफलं विद्धि अवस्थात्रितये नृप ! ॥ तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव च । नृप ! दानन्तु तत् सर्व्वं भुङ्क्ते गर्भस्थ एव तु ॥ ईर्षामन्युमनाश्चैव दम्भार्थं चार्थकारणात् । यो ददाति द्विजातिभ्यः स बाल्ये तु तदश्नुते ॥ वैश्यदेवविहीनञ्च सन्ध्योपासनवर्ज्जितम् । यद्दानं दीयते तस्मै वृद्धकाले तदश्नुते ॥ वृथा जन्मानि चत्वारि वृथा दानानि षोडश । तान्यहं संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥ अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा । परपाकं सदाश्नन्ति परतापरताश्च ये ॥ देवपितृविहीनं यत् ईश्वरेभ्यः सदोषतः । दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥ अन्यायोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्त्रे च स्तेनाय पतिताय च ॥ कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्बिषे । याचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥ परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र ! वृथादानानि षोडश ॥” इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा- ध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=दानफलम्&oldid=139990" इत्यस्माद् प्रतिप्राप्तम्