सामग्री पर जाएँ

दानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानम्, क्ली, (दा दाने दो अवखण्डने दैप शोधने भावादौ ल्युट् ।) गजमदः । (यथा, माघे । ५ । ३७ । “दानं ददत्यपि जलः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ॥” “दीयते इति दानं धनं गजमदश्च ।” इति तट्टीकायां मल्लिनाथः ॥) पालनम् । छेद- नम् । शुद्धिः । इति मेदिनी । ने, १० ॥ वृक्ष- कोटरकीटजमधु । अस्य गुणाः । रूक्षत्वम् । दीपनत्वम् । कफच्छर्दिमेहनाशित्वञ्च । इति राजवल्लभः ॥ देवब्राह्मणादिसम्प्रदानकद्रव्यमो- चनम् । तत्पर्य्यायः । त्यागः २ विहापितम् ३ उत्सर्जनम् ४ विसर्जनम् ५ विश्राणनम् ६ वितर- णम् ७ स्पर्शनम् ८ प्रतिपादनम् ९ प्रादेशनम् १० निर्व्वपणम् ११ अपवर्जनम् १२ अंहतिः १३ । इत्यमरः । २ । ७ । २९ ॥ दायः १४ । इति त्रिकाण्ड- शेषः ॥ प्रदानम् १५ ददनम् १६ विश्रणनम् १७ दत्तिः १८ अंहती १९ उत्सर्गः २० अति- सर्जनम् २१ स्पर्शः २२ विसर्गः २३ क्षणनम् २४ प्रदेशनम् २५ । इति शब्दरत्नावली ॥ * ॥ तस्य लक्षणादि यथा, -- “अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्द्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥ सम्प्रदानस्वत्वापादकद्रव्यत्यागो दानमिति ॥ * ॥ दाता प्रतिग्रहीता च श्रद्धादेयञ्च धर्म्मयुक् । देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥ मनसा पात्रमुद्दिश्य भूमौ तोयं विनिःक्षिपेत् । विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥ परोक्षे कल्पितं दानं पात्राभावे कथं भवेत् । गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु ॥ यदा तु न सकुल्यः स्यान्न च सम्बन्धिबान्धवाः । दद्यात् स्वजातिशिष्येभ्यस्तदभावेऽप्सु निःक्षि- पेत् ॥ स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते । वसित्वा वसनं शुद्धं दानं दद्यात् सदक्षिणम् ॥ * ॥ एकां गां दशगुर्द्दद्यात् दश दद्याच्च गोशती । शतं सहस्रगुर्द्दद्यात् सहस्रं बहुगोधनः ॥ ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किन्न दीयते । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् । स्वल्पं वा विपुलं वापि देयमित्यभिधीयते ॥ * ॥ विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः । दाराः पुत्त्राश्च सर्व्वस्वमात्मन्येव च योजयेत् ॥ आपत्काले च कर्त्तव्यं दानं विक्रय एव च । अन्यथा न प्रवर्त्तेत इति शास्त्रार्थनिश्चयः ॥ * ॥ यज्ञो दानं तपो जाप्यं श्राद्धञ्च सुरपूजनम् । चेतसा धर्म्मयुक्तेन दानं तद्बिमलं शिवम् ॥” इति कूर्म्मपुराणम् ॥ रोगोपशमनाय दानविधिर्यथा, -- “गोदानं भूमिदानञ्च स्वर्णदानं सुरार्च्चनम् । कृत्वा पश्चात् प्रतीकारं कुर्य्यात् पाण्डूपशान्तये ॥ महापापेषु सर्व्वेषु तदर्द्धं मुख्यदोषजे । अथवापि षडष्टांशात् कल्प्यं व्याधिबलाबलात् ॥ कुर्य्यात् सर्व्वं कृतं कर्म्म कुष्ठरोगोपशान्तये । गोभूहिरण्यदानञ्च तथामिष्टान्नभोजनम् ॥ चतुर्व्विधं दानमिदं दत्त्वा कुर्य्यात् प्रतिक्रियाम् । कदाचिदपि सिध्येत आयुषश्च बलक्रिया ॥ मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे । अर्शोभ्यस्त्वन्नदानेन श्वासात् कासाद्बिमुच्यते ॥ ज्वरेचेश्वरपूजा च रुद्रजाप्यं समाचरेत् । मतिदानान्नदानञ्च शास्त्रदानं भ्रमातुरे ॥ अग्निहोमञ्चाग्निमान्द्ये कन्यादानञ्च गुल्मके । मेहाश्मरीविनाशाय लवणञ्च प्रदापयेत् ॥ बहुभोजनदानेन शूलरोगाद्बिमुच्यते । घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति ॥ चतुर्व्विधेन दानेन साध्यः स्याद् ग्रहणीगदः । सुवर्णदानात् कुनखी श्यावदन्तः सुखी भवेत् ॥ रौप्यदानाच्छ्वित्रकुष्ठं साध्यं वापि प्रदृश्यते । सिध्मले त्रपुदानञ्च वर्व्वरे लोहदानकम् ॥ मुखव्रणे ददेन्नागं गोदानं बहुमूत्रके । नेत्ररोगे घृतं दद्यात् सुगन्धं नासिकागदे ॥ तैलदानं कण्डुरोगे रसदानञ्च जिह्वके । उष्ट्रं दद्यात् पित्तरोगे लूतारोगे च देवदः ॥” इति हारीते द्बितीयस्थाने प्रथमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानम् [dānam], [दा-ल्युट्]

Giving, granting, teaching, &c. (in general); giving in marriage (cf. कन्यादान).

Delivering, handing over.

A gift, donation, present; Ms.2.158; दातव्यमिति यद्दान दीयते$नुपकारिणे Bg.17.2; Y.3.274.

Liberality, charity, giving away as charity, munificence; R.1.69; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; दानं हि उत्सर्गपूर्वकः परस्य स्वत्वसम्बन्धः ŚB. on MS.4.1.3; ननु दानमित्युच्यते स्वत्वनिवृत्तिः परस्वत्वा- पादनम् च । ŚB. on MS.6.7.1.

Ichor or the uicej that exudes from the temples of an elephant in rut; स दानतोयेन विषाणि नागः Śi.4.63; Ki.5.9; V.4.25; Pt.2.75 (where the word has sense 4 also); R.2.7;4.45;5.43.

Bribery, as one of the four Upāyas or expedients of overcoming one's enemy; see उपाय.

Cutting, dividing.

Purification, cleaning.

Protection.

Pasture.

Adding; addition. -नः Ved.

Distribution (of food), meal, especially a sacrificial meal.

Part, possession, share.

A distributor. -Comp. -काम a. liberal. -कुल्या the flow of rut from an elephant's temples. -तोयम् दानवारि q. v. -धर्मः alms-giving, charity.

पतिः an exceedingly liberal man.

Akrūra, a friend of Kṛiṣṇa; Bhāg.1.36.29. -पत्रम् a deed of gifts. -पात्रम् 'a worthy recipient', a Brāhmaṇa fit to receive gifts. -पारमिता perfection of liberality. -प्राति- भाव्यम् security for payment of a debt. -भिन्न a. made hostile by bribes; लुब्धानुजीविकैरेष दानभिन्नैर्निहन्यते H.4.39.-वज्रः an epithet of the Vaiśyas or men of the third tribe; वैश्या वै दानवज्राश्च Mb.1.17.52. -वर्षिन् an elephant in rut, infatuated elephant; दानवर्षी कृताशंसो नागराज इवाबभौ Ki.15.45. -वार् n. libation of water. -वारि n., ichor flowing from the temples of elephants.

वीरः a very liberal man.

(In Rhet.) the sentiment of heroism arising out of liberality, the sentiment of chivalrous liberality, e. g. Paraśurāma who gave away the earth with its seven continents; cf. the instance given in R. G. under दानवीरः: कियदिदमधिकं मे यद् द्विजायार्थयित्रे कवचमरमणीयं कुण्डलं चार्पयामि । अकरुणमवकृत्य द्राक्कृ- पाणेन निर्यद् बहलरुधिरधारं मौलिमावेदयामि ॥ -व्यत्यासः giving to a wrong person. -शाला hall for almsgiving. -शील, -शूर, -शौण्ड a. exceedingly liberal or munificent; निर्गुणो$पि विमुखो न भूपतेर्दानशौण्डमनसः पुरो$भवत् Śi.14.46.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a Sukha God. Br. IV. 1. १९. [page२-082+ ४१]
(II)--a Mukhya गण. वा. १००. १८.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

DĀNAM : Gift. In ancient India a spiritual significance was attached to dānam. (offering of a free gift). One who gave water was said to achieve contentment; one who gave food, eternal happiness; one who gave land, government of the country; one who gave gold would attain longevity; one who gave a house would get domestic felicity; one who gave silver would get physical beauty; one who gave clothes would reach candraloka; one who gave a horse would attain the world of the Aśvinīdevas; one who gave bulls would get prosperity; one who gave cows would reach sūryaloka; according to Manusmṛti.

Vāridastṛptimāpnoti
Sukhamakṣayyamannadaḥ /
Tilapradaḥ prajāmiṣṭāṁ
Dīpadaścakṣuruttamam //
Bhūmido Bhūmimāpnoti
Dīrghamāyur hiraṇyadaḥ /
Gṛhadogryāṇi veśmāni
Rūpyado rūpamuttamam //
Vāsodaścandrasālokya-
Maśvisālokyamaśvadaḥ /
Anaḍuddaḥ Śriyampuṣṭām
Godo bradhnasya viṣṭapam //
(Manusmṛti, Chapter 4).

According to Manu, the Ācārya, the rewards obtained by offering the following articles as “Dānam” are as follows:--
Articles offered as Dānam Reward obtained by dātā (giver).
Vehicle--bed Virtuous wife.
Refuge (shelter) Prosperity.
Corn Eternal happiness.
Brahmajñāna Brahmasāyujya. (See also Nakṣatrayoga and Merudāna).


_______________________________
*6th word in right half of page 199 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दानम्&oldid=430713" इत्यस्माद् प्रतिप्राप्तम्