सामग्री पर जाएँ

दानवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानवः, पुं, (दनोरपत्यम् । दनु + “तस्यापत्यम् ।” ४ । १ । १२ । इति अण् ।) असुरः । इत्य- मरः । १ । १ । १२ ॥ (यथा, ऋग्वेदे । २ । ११ । १० । “नि मायिनो दानवस्य माया अपादयत् पपिवान्त्सुतस्य ॥”) स दक्षकन्यादनुगर्भे कश्यपाज्जात एकषष्टि- संख्यकस्तेष्वष्टादश प्रधानास्तेषां नामानि यथा, द्बिमूर्द्धा १ शम्बरः २ अरिष्टः ३ हयग्रीवः ४ विभावसुः ५ अयोमुखः ६ शङ्कुशिराः ७ स्वर्भानुः ८ कपिलः ९ अरुणः १० पुलोमा ११ वृषपर्व्वा १२ एकचक्रः १३ तापनः १४ धूम्र- केशः १५ विरूपाक्षः १६ विप्रचित्तिः १७ दुर्ज्जयः १८ । इति श्रीभागवतम् ॥ (महा- भारते चत्वारिंशत्दनोः पुत्त्रा उक्ताः । यथा, तत्रैव । १ । ६५ । २१ -- २२ । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ! । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥ शम्बरो नमुचिश्चैव पुलोमा चेतिविश्रुतः । असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥” इत्यारभ्य तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानवः [dānavḥ], [दनोरपत्यं अण्] A demon, Rākṣasa; त्रिदिव- मुद्धृतदानवकण्टकम् Ś.7.3.

Comp. अरिः a god.

an epithet of Viṣṇu. -गुरुः an epithet of Śukra.

"https://sa.wiktionary.org/w/index.php?title=दानवः&oldid=289186" इत्यस्माद् प्रतिप्राप्तम्