सामग्री पर जाएँ

दानविधिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दानविधिः, पुं, (दानस्य विधिः ।) दानस्य विधा- नम् । यथा, -- “अथ दानविधिं वक्ष्ये तं मे शृणुत सुव्रताः । अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥ ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यातपोऽन्वितः । गोभूघान्यहिरण्यादि पात्रे दातव्यमर्च्चितम् ॥ विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥ दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतन्तु शक्तितः ॥ हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम् । पञ्चाशत्पलिकं पात्रं कांस्यं वत्सश्च कीर्त्त्यते ॥ स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा । तस्यामपि च दातव्यं अपत्यं रोगवर्ज्जितम् ॥ दाता स्वर्गमवाप्नोति वत्सरान् रोमसम्मितान् । कपिला चेत्तारयते भूयश्चासप्तमं कुलम् ॥ यावद्वत्सस्य द्बौ पादौ मुखं योन्यां प्रदृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ यथाकथञ्चिद्दत्त्वा गां धेनुं वाधेनुमेव वा । अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्च्चनम् । पादशौचं द्विजोच्छिष्टमार्ज्जनं गोप्रदानवत् ॥ द्बिजाय यदभीष्टन्तु दत्त्वा स्वर्गमवाप्नुयात् । भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ॥ गृहधान्यच्छत्रमालायानवृक्षघृतं जलम् । शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥ ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्ल्लभम् ॥ वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि । मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ॥ एतन्मूलं जगत् यस्मादसृजत् पूर्ब्बमीश्वरः । तस्मात् सर्व्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः ॥ इतिहासं पुराणं वा लिखित्वा यः प्रयच्छति ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणोन्नतिम् । लोकायतं कुतर्कश्च प्राकृतं म्लेच्छभाषितम् । न श्रोतव्यं द्विजेनैव तदधो नयति द्बिजम् ॥ समर्थो यो न गृह्णीयात् दातृलोकमवाप्नुयात् ॥ कुशाः शाकं पयो गन्धाः प्रत्याख्येयं न वारि च । अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः ॥ अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा । देवातिथ्यर्च्चनकृते पितृभृत्यर्थमेव च । सर्व्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च ॥” इति गारुडे ९८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=दानविधिः&oldid=139998" इत्यस्माद् प्रतिप्राप्तम्