दान्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दान्तः, त्रि, (दाम्यतीति । दम + कर्त्तरि क्तः ।) तपःक्लेशसहः । (यथा, मनुः । ४ । ३५ । “कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ॥”) दमितः । इत्यमरः । २ । ७ । ४३ ॥ (यथा, महाभारते । १ । २२२ । ४६ । “तथैवाश्वतरीणाञ्च दान्तानां वातरं हसाम् ॥” दन्तेन निर्वृत्तम् । दन्त + “तेन निर्वृत्तम् ।” ४ । २ । ६८ । इति अण् । दन्तनिर्म्मितम् । यथा, महाभारते । ५ । ४६ । ५ । “रुचिरैरासनैस्तीर्णां काञ्चनैर्दारवैरपि । अश्मसारमयैर्दान्तैः स्वास्तीर्णैःसोत्तरच्छदैः ॥”) दाता । इति संक्षिप्तसारे उणादिवृत्तिः ॥ पुं, दमनकवृक्षः । शिक्षितवृक्षः । इति राज- निर्घण्टः ॥ (विदर्भराजपुत्त्रविशेषः । यथा, महाभारते । ३ । ५३ । ८ -- ९ । “तस्मै प्रसन्नो दमनः सभार्य्याय वरं ददौ । कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः ॥ दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” स्त्री, अप्सरोविशेषः । यथा, महाभारते । १३ । १९ । ४५ । “विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥”)
