दामोदरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दामोदरः, पुं, (“दमादिसाधनेनोदारा उत्कृष्टा मतिर्या तया गम्यते इति दामोदरः । ‘दाम्ना- दामोदरं विदुः ।’ इति भगवद्बचनात् । यशो- दया दाम्नोदरे बद्ध इति वा दामोदरः । ‘दामानि लोकनामानि तानि यस्योदरान्तरे । तेन दामोदरो देवः श्रीधरस्तु रमाश्रितः ॥’ इति वा ।” इति विष्णुसहस्रनामभाष्ये शङ्करः ॥ ५३ ॥ तथा, महाभारते । ५ । ७० । ८ । “देवानां स्वप्रकाशत्वात् दमाद्दामोदरो विभुः ॥”) विष्णुः । इत्यमरः । १ । १ । १८ ॥ (दाम रज्जु- रुदरे यस्य । श्रीकृष्णः । यथा, महाभारते । १ । १९० । १९ । “दामोदरो भ्रातरमुग्रवीर्य्यं हलायुधं वाक्यमिदं बभाषे ॥” यशोदयासौ उदरदेशे दाम्ना बद्ध आसीत् अतो- ऽस्य तथा नाम । यथा, हरिवंशे । ६३ । १४, २६ । “दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुदूखले । यदिशक्तोऽसि गच्छेति तमुक्त्रा कर्म्म साकरोत् ॥” “स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥”) भूतार्हद्विशेषः । इति हेमचन्द्रः । २ । १३० ॥ (शालग्राममूर्त्तिविशेषः । तल्लक्षणं यथा, पद्म- पुराणे । “स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः । चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा ॥” अस्य अन्यद्विवरणन्तु शालग्रामशब्दे द्रष्ट- व्यम् ॥ * ॥ काश्मीरस्य नृपविशेषः । यथा, राज- तरङ्गिण्याम् । १ । ६४ । “गतिं प्रवीरसुलभां तस्मिन् सुक्षत्त्रिये गते । श्रीमान् दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥”)
