सामग्री पर जाएँ

दायभागः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दायभागः, पुं, (दायस्य भागः ।) सम्बन्धिमात्रेण सम्बन्धिधनविभागः । पूर्ब्बद्रव्यस्वामिसम्बन्धा- धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो दायशब्दस्तस्य विभागः । एकदेशगतस्यैव भूहिरण्यादाबुत्पन्नस्य स्वत्वस्य विनिगमना- प्रमाणाभावेन वैशेषिकव्यवहारानर्हतयाव्यव- स्थितस्य गुटिकापातादिना व्यञ्जनम् । अथवा विशेषेण भजनं स्वत्वज्ञापनं वा । यत्र चैकं दासीगवादिकं बहुसाधारणं तत्रापि तत्तत्- कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते ॥ * ॥ अथ दायाधिकारक्रमे पुंधनाधिकारिणः । तत्रादौ मृतधने औरसपुत्त्रस्याधिकारः । तद- भावे पौत्त्रस्य । तदभावे प्रपौत्त्रस्य । मृत- पतृकपौत्त्रमृतपितामहकप्रपौत्त्रयोः पुत्त्रेण सह तुल्याधिकारः । एषामभावे पत्नी धनाधि- कारिणी । तत्रायं विशेषः पत्नी धनं भुञ्जीत तदभावे ग्रामस्थाः सगोत्राः । तदभावे तथा- विधाः समानप्रवराः । उक्तपर्य्यन्ताभावे तद्- ग्रामस्थास्त्रैविद्यत्वादिगुणयुक्ता ब्राह्मणा धनाधि- कारिणः । एतेषामभावे ब्राह्मणधनवर्ज्जं राजाधिकारी । ब्राह्मणधनस्य तु गुणवद्ब्राह्मण- पर्य्यन्ताभावे ब्राह्मणान्तरस्य ग्रामान्तरस्थस्यापि अधिकारः । वानप्रस्थयतिब्रह्मचारिणां धनं धर्म्मभ्रातृसच्छिष्याचार्य्या गृह्णीयुः । तदभावे चैकत्रवासी एकाश्रमी वा गृह्णीयात् । ब्रह्म- चारी च द्बिविधः नैष्ठिक उपकुर्व्वाणश्च । तत्र नैष्ठिकधने आचार्य्यस्याधिकारः । उपकुर्व्वाणस्य तु धनं पित्रादिभिरेव ग्राह्यम् । इति पुंधनाधि- कारिणः ॥ * ॥ अथ स्त्रीधनाधिकारक्रमः । तत्र कुमारीधने प्रथमं सोदरभ्राताधिकारी । तदभावे माता तदभावे पिता । वरदत्तधने वरोऽधिकारी ॥ * ॥

"https://sa.wiktionary.org/w/index.php?title=दायभागः&oldid=140036" इत्यस्माद् प्रतिप्राप्तम्