सामग्री पर जाएँ

दारकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दारकः, पुं, (दारयति नाशयति जनकस्य पितॄण- मिति । दॄ + णिच् + ण्वुल् ।) पुत्त्रः । इति हेम- चन्द्रः । ३ । २०६ ॥ (यथा, महाभारते । १ । ८३ । १३ । “कस्यैते दारका राजन् देवपुत्त्रोपमाः शुभाः । वर्च्चसा रूपतश्चैव सदृशा मे मतास्तव ॥”) बालकः । इति मेदिनी । के, १०३ ॥ (यथा, महाभारते । १ । ८३ । १६ । “शर्म्मिष्ठां मातरञ्चैव तथा चख्युश्च दारकाः ॥”) दारुकः । इति शब्दार्थकल्पतरुः ॥ ग्राम्य- शूकरः । इति राजनिर्घण्टः ॥

दारकः, त्रि, (दारयतीति । दॄ + णिच् + ण्वुल् ।) भेदकः । इति मेदिनी । के, १०३ ॥ (यथा, -- “अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽर्शोऽधिकारे ॥”)

"https://sa.wiktionary.org/w/index.php?title=दारकः&oldid=140045" इत्यस्माद् प्रतिप्राप्तम्