सामग्री पर जाएँ

दारितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दारितः, त्रि, (दार्य्यते स्मेति । दॄ + णिच् + क्तः ।) कृतदारणः । तत्पर्य्यायः । भिन्नः २ भेदितः ३ । इत्यमरः । ३ । १ । १०० ॥ विदारितः ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । १०७ । ४९ । “अंशुमानेवमुक्तस्तु सगरेण महात्मना । जगाम दुःखात् तं देशं यत्र वै दारिता मही ॥” ताडितः । यथा, कालिकापुराणे ९० अध्याये । “ततः सुदर्शनो राजा गदया दारितोऽपतत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दारितः&oldid=140058" इत्यस्माद् प्रतिप्राप्तम्