दारुणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दारुणः, पुं, (दारयतीति । दॄ + णिच् + “कॄवृ दारिभ्य उनन् ।” उणां ३ । ५३ । इति उनन्- । चित्रकः । इति राजनिर्घण्टः ॥ भयानकरसः । (विष्णुः । यथा, महाभारते । १३ । १४९ । ७४ “सुघन्वा खण्डपरशुर्द्दारुणो द्रविणप्रदः ॥” “सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात) दारुणः ।” इति तद्भाष्ये शङ्करः ॥) भयहेतौ, त्रि । इत्यमरः । १ । ७ । २० ॥ (यथा, देवीभागवते । ५ । ४ । २७ । “हाहाकारो महानासीत् सम्प्रहाराश्च दारुणः उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥” कठोरः । यथा, तत्रैव । १ । ४ । ५२ । “दारुणं देहदमनं सर्व्वलोकभयङ्करम् ॥”)
