सामग्री पर जाएँ

दारुणकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दारुणकम्, क्ली, (दारुणवत् कायतीति । कै + कः ।) मस्तकजातक्षुद्ररोगविशेषः । लोके रूसी इति ख्यातः । तस्य लक्षणमाह । “दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते । मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् ॥ दारुणा कर्क्कशा ॥” तस्य चिकित्सा यथा, -- “कार्य्यो दारुणके मूर्द्ध्नि प्रलेपो मधुसंयुतः । पियालबीजमधुककुष्ठमाषैः ससैन्धवैः ॥ आम्रबीजं तथा यथ्या द्वयं स्यात् मात्रया समम् । दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम् ॥ दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् । गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन च ॥ कण्डुदारुणहृत् कुष्ठकपालव्याधिनाशनम् ॥” इति गुञ्जातैलम् ।” इति भावप्रकाशः ॥ (अथ भृङ्गराजतैलम् । “भृङ्गराजत्रिफलोत्पलशारि लौहपुरीषसमन्वितकारि । तैलमिदं पच दारुणहारि कुञ्चितकेशघनस्थितकारि ॥” इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=दारुणकम्&oldid=140076" इत्यस्माद् प्रतिप्राप्तम्