सामग्री पर जाएँ

दासीघट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दासीघटः, पुं, (दासीपादनिक्षेप्यो घटः । मध्य- पदलोपिसमासः ।) नवम्यां महापातकिनः परित्यागार्थं सपिण्डसमानोदकनियुक्तदक्षिणा- भिमुखदासीपादनिःक्षेप्यजलपूर्णकलसः । तदनु- ष्ठानं यथा, मनुः । ११ । १८३ -- १८५ । “पतितस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥ दासीधटमपां पूर्णं पर्य्यस्येत् प्रेतवत् पदा । अहोरात्रमुपासीरन्नशौचं वान्धवैः सह ॥ निवर्त्तेरंश्च तस्मात्तु सम्भाषणसहासने । दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिली ॥” “पतितस्येति । महापातकिनो जीवत एव प्रेत- स्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैः समानो- दकैश्च ग्रामाद्बहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधाने रिक्तायां नवम्यां तिथौ दिनान्त कर्त्तव्या ॥ दासीति । सपिण्डसमानोदकानियुक्ता दासी उदकपूर्णं घटं प्रेतवदिति दक्षिणाभिमुखीभूय पादेन क्षिपेत् । यथा स निरुदको भवति तदनु ते सपिण्डाः समानोदकैः सहाहोरात्रमशौच- माचरेयुः ॥ निवर्त्तेरन्निति । तस्मात् पति- तात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनञ्च तस्मै ऋक्थप्रदानं सांवत्सरिकादौ निम- न्त्रणादिरूपो लोकव्यवहार एतानि निवर्त्ते- रन् ॥” इति कुल्लूकभट्टः ॥

"https://sa.wiktionary.org/w/index.php?title=दासीघट&oldid=140152" इत्यस्माद् प्रतिप्राप्तम्