सामग्री पर जाएँ

दाहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दाहः, पुं, (दह + भावे घञ् ।) दहनम् । भस्मी करणम् । (यथा, मार्कण्डेये । ३० । २३ । “तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना । क्रमेण चिताग्नौ प्रक्षिपेत् । ततः कुठारेण क्रव्या- दाय नमस्तुभ्यमिति मन्त्रं सकृत् पठित्वा चितास्थज्वलद्दारूपरि सप्तप्रहारा देयाः तमग्नि- मपश्यद्भिर्व्वामावर्त्तेन स्नातुं नदी गन्तव्या । नग्नं शवं न दहेत् शवसम्बन्धिवस्त्रादि श्मशान- वासिचाण्डालादिभ्यो दद्यात् । सूतिकां रज- स्वलाञ्च वस्त्रान्तरावृतां सतिलपञ्चगव्यं जल- पूर्णकुम्भं आपोहिष्टीयवामदेव्यादिभिरभिमन्त्र्य स्नापयित्वा दहेदिति विशेषः । गर्भवत्यास्तु गर्भं निःसार्य्य स्थानान्तरे निःक्षिप्य तस्या दाहः कार्य्यः । ततो जलसमीपं गत्वा पुत्त्रादयः प्रयोगदानाभिज्ञं श्यालकादिकं प्रार्थयेयुः । उदकं करिष्याम इति तेन च कुरुध्वं मा चैवं पुन- रित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिन् इत्युत्तरे दत्ते वृद्धपुरःसरमवतरणं जले । ततः परिहित- वस्त्रं प्रक्षाल्य तदेव परिधाय प्राचीनावीतिनो दक्षिणासुखाः ओ~ अपनः शोशुचदथमित्यनेन मन्त्रेण वामहस्तानामिकया अप आलोड्य एकवस्त्राः सकृन्निमज्योन्मज्याचम्य दक्षिणा- मुखास्तर्पयेयुः । ततः ओ~ अमुकगोत्रं प्रेतममुक- देवशर्म्माणं तर्पयामीति सामगानां प्रयोगः यजुर्व्वेदिनान्तु अमुकगोत्र प्रेतामुकदेवशर्म्मन्ने- तत्ते तिलोदकं तृप्यस्वेति एकाञ्जलिदानमाव- श्यकं अञ्जलित्रयदाने फलातिशयः । ततः पुनः स्नात्वा जलादुत्थानं बालपुरःसरं कार्य्यम् । ततः साद्बले उपविश्य, मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । यः करोति स संमूढो जलयुद्बुदसन्निभे ॥ पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः । कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रिया कार्य्या विघानतः ॥ इति चिन्तयित्वा गृहद्बारं समागत्य निम्ब- पत्राणि दन्तैः खण्डयित्वा शमी पापं शमय- त्विति शमीं स्पृष्ट्वा अश्मेव स्थिरो भूयासं इत्य- श्मानं पदा स्पृष्ट्वा अग्निर्नः शर्म्म यच्छतु इति अग्निं स्पृष्ट्वा वृषभच्छागयोर्म्मध्ये स्थित्वा ह्योगि- तिमन्त्रेण द्वावपि स्पृष्ट्वा गोमयमुदकं गौरसर्ष- पांश्च स्पृष्ट्वा बालपुरःसरा गृहं विशेयुः । दिवा चेद्दाहस्तदा रात्रौ ग्रामप्रवेशः रात्रौ चेत्तदा दिवसे । अशक्तौ ब्राह्मणानुमतिं गृहीत्वा काल- प्रतीक्षणं विना प्रवेष्टव्यम् ।” इति शुद्धितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दाहः [dāhḥ], [दह्-भावे-घञ्]

Burning, conflagration; दाह- शक्तिमिव कृष्णवर्त्मनि R.11.42; छेदो दंशस्य दाहो वा M.4.4; Ki.5.14.

Glowing redness (as of the sky).

The sensation of burning, internal heat.

Feverish or morbid heat.

A place of cremation; Vās.19.26.

Cauterizing; M.4.4. -Comp. -अगुरुः n., -काष्ठम् a kind of agallochum. -आत्मक a. destructive, having power to burn, combustible; शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś.2.7. -ज्वरः inflammatory fever.-सरः, -सरस् n., -स्थलम् a place where dead bodies are burnt, cemetery. -हर, -हरण a. allaying heat. (-रम्, णम्) the Uśīra plant.

"https://sa.wiktionary.org/w/index.php?title=दाहः&oldid=291618" इत्यस्माद् प्रतिप्राप्तम्