दाहकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दाहकः, पुं, (दहतीति । दह + ण्वुल् ।) चित्रकः । रक्तचित्रकः । इति राजनिर्घण्टः ॥ दाह- कर्त्तरि, त्रि ॥ (यथा, याज्ञवल्क्ये । २ । २८५ । “क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्नाभिगामी च दग्धव्यास्तु कटाग्निना ॥” उष्णगुणः । यथा, राजनिर्घण्टे । “काञ्जिकं दधितैलन्तु वलीपलितनाशनम् । दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम् ॥”)
