दिक्पतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिक्पतिः, पुं, (दिशां पतिः ।) दिगधीश्वरः । तद्यथा । प्राच्यधिपो रविः । अग्निकोणाधिपः शुक्रः । दक्षिणाधिपः कुजः । नैरृतकोणाधिपो राहुः । प्रतीच्यधिपः शनिः । वायुकोणाधिप- श्चन्द्रः । उत्तराधिपो बुधः । ईशानकोणाधिपो गुरुः । तस्य प्रमाणं यथा, -- “सूर्य्यः शुक्रः क्षमापुत्त्रः सैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥” इति ज्योतिस्तत्त्वम् ॥
