सामग्री पर जाएँ

दिक्पालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्पालः, पुं, (दिशः पालयतीति । दिश् + पालि + अण् ।) पूर्ब्बादिदशदिशां पालकः । यथा । पूर्ब्बस्यां दिशि इन्द्रः । अग्निकोणे वह्निः । दक्षिणस्यां दिशि यमः । नैरृतकोणे निरृतः । पश्चिमस्यां दिशि वरुणः । वायुकोणे मरुत् । उत्तरस्यां दिशि कुवेरः । ईशानकोणे ईशः । ऊर्द्ध्वदिशि ब्रह्मा । अघोदिशि अनन्तः । इति पुराणम् ॥ यथा, पद्मपुराणे । “यत्रार्च्चयन्ति विधिना दिक्पालादींस्तु कर्म्मिणः । तत्र प्रपूजयेदेनं विधिं भागवतं शुकम् ॥”

"https://sa.wiktionary.org/w/index.php?title=दिक्पालः&oldid=140192" इत्यस्माद् प्रतिप्राप्तम्