सामग्री पर जाएँ

दिक्शूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्शूलम्, क्ली, (दिशि शूलमिव ।) दिग्विशेष- गमने निषिद्धवाराः । यथा, -- पश्चिमायां शुक्ररवी । उत्तरस्यां बुधमङलौ । पूर्ब्बस्यां शनिसोमौ । दक्षिणस्यां बृहस्पतिः । तथा च । “शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् । शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्त- लाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्या अपि ॥” इति ज्योतिःसारसंग्रहः ॥ केषाञ्चिन्मते । „-- बौधे गुरौ दक्षिणाम् । ईशाने ज्वलने चैव नैरृते मारुते तथा । न गन्तव्यं सुराचार्य्ये प्रतीच्यां रविशुक्रयोः ॥” इति सुखबोधः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्शूल¦ न॰ दिशि दिग्भेदे गतौ शूलमिव। प्राच्यादिदिक्षुगमने निषिद्धवारभेदे।
“शुक्रादित्यदिने न वारुणदिशंन ज्ञे कुजे चोत्तरां मन्देन्द्वोश्च दिने न शक्रककुभंयाम्यां गुरौ न व्रजेत्। शूलानीति विलङ्घा यान्तिमनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदिते शक्रेण तुल्या अपि” ज्योतिःसारसंग्रहः। केषाञ्चिन्मते
“बौधे गुरौ दक्षिणाम्। ईशाने ज्वलनेचीव नैरृते मारुते तथा। न गन्तव्यं सुराचार्ये प्र-तीच्यां रविशुक्रयोः” इति

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्शूल¦ n. (-लं) An inauspicious planetary conjunction, as for the Sun and Venus to be in the west, &c. E. दिश्, and शूल a spear or stake.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्शूल/ दिक्--शूल n. " sky-spear " , any inauspicious planetary conjunction

दिक्शूल/ दिक्--शूल n. N. of partic. days on which it is not allowed to travel in certain directions L.

"https://sa.wiktionary.org/w/index.php?title=दिक्शूल&oldid=291891" इत्यस्माद् प्रतिप्राप्तम्