सामग्री पर जाएँ

दिक्शूलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिक्शूलम्, क्ली, (दिशि शूलमिव ।) दिग्विशेष- गमने निषिद्धवाराः । यथा, -- पश्चिमायां शुक्ररवी । उत्तरस्यां बुधमङलौ । पूर्ब्बस्यां शनिसोमौ । दक्षिणस्यां बृहस्पतिः । तथा च । “शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् । शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्त- लाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्या अपि ॥” इति ज्योतिःसारसंग्रहः ॥ केषाञ्चिन्मते । „-- बौधे गुरौ दक्षिणाम् । ईशाने ज्वलने चैव नैरृते मारुते तथा । न गन्तव्यं सुराचार्य्ये प्रतीच्यां रविशुक्रयोः ॥” इति सुखबोधः ॥

"https://sa.wiktionary.org/w/index.php?title=दिक्शूलम्&oldid=140194" इत्यस्माद् प्रतिप्राप्तम्