सामग्री पर जाएँ

दिगम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिगम्बरः, पुं, (दिगेव अम्बरं वस्त्रं यस्य । उलङ्ग- त्वात् तथात्वम् ।) शिवः । क्षपणः । (स तु जैनविशेषः । यथा, पञ्चदश्याम् । ६ । ८२ । “दिगम्बरा मध्वमत्वमाहुरापादमस्तकम् । चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥”) तमः । इति मेदिनी । रे, २६७ ॥ (नग्ने, त्रि । यथा, पञ्चतन्त्रे । ५ । १४ । “एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिगम्बर वि।

नग्नः

समानार्थक:नग्न,अवासस्,दिगम्बर

3।1।39।1।5

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिगम्बर¦ पु॰ दिक्शून्यमम्बरं यस्य।

१ शिवे

२ जैनभेदे पु॰तन्मतमर्हच्छब्दे उक्तप्रायं किञ्चिदत्राधिकमुच्यते।
“दि-गम्बरा मध्यमत्वमाहुरापादमस्तकम्। चैतन्यव्याप्तिसंदृष्टे-रानखाग्रश्रुतेरपि”। अस्य भाषा प्राकृतान्तरभेदमिन्नामागधी। अस्य स्वरूपन्तु गलन्मलपङ्केन पिच्छिलबी-भत्सदुष्प्रेक्ष्यदेहच्छविलुञ्चितचिकुरो मुक्तवसनो वेश-दुर्दर्शनः शिखिशिखण्डपिच्छिकाहस्तः इति। एतन्मत-सिद्धं जीवस्य मध्यमपरिमाणत्वं शा॰ सू॰ भाष्ययोर्नि-राकृतं यथा(
“एवञ्चात्माऽकात्र्स्न्यम्” सू॰।
“शरीरपरिमाणोहि जीव इत्यार्हता मन्यन्ते। शरीरपरिमाणतायांच सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादि-वदनित्यत्वमात्मनः प्रसज्येत। शरीराणाञ्चानवस्थित-परिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वापुनः केनचित् कर्मविपाकेण हस्तिजन्म प्राप्नुवन्न कृत्स्नंहस्तिशरीरं व्याप्नुयात्, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नपुत्तिकाशरीरे सम्मीयेत। समान एष एकस्मिन्नपिजन्मनि कौमारयौवनस्थाविरेषु दोषः। स्यादेतत्, अन-न्तावयवी जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कु-चेयुर्महति च विकाशेयुरिति। तेषां पुनरनन्तानांजीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेतिवक्तव्यम्। प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्नेदेशे सम्मीयेरन्। अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेःसर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गःस्यात्। अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवा-नामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् अथ पर्य्यायेण[Page3574-a+ 38] वृहच्छरीरप्रतिपत्तौ च केचिज्जीवावयवा उपगच्छन्तितनुशरीरप्रतिपत्तौ च केचिदपगच्छन्ति इत्युच्येत तत्रा-प्युच्यते” भा॰।
“न च पर्य्यायादप्यविरोधी विकारा-दिभ्यः” सू॰।
“न च पर्य्यायेणाप्यवयवोपगमापगमा-भ्यामेतद्देहपरिमाणत्व जीवस्याविरोधेनोपपादयितुंशक्यते कुतः विकारादिदोषप्रसङ्गात्। अवयवोपगमा-पगमाभ्यां ह्यनिशमापूर्य्यमाणस्यापक्षीयमाणस्य च जीवस्यविक्रियावत्त्वं तावदपरिहार्य्यं विक्रियावत्त्वे च चर्मा-दिवदनित्यत्वं प्रसज्येत ततश्च बन्धमोक्षभ्युपगमोबाध्येत, कर्माष्टकपरिवेष्टितस्य जीवस्यालाबूवत् संसार-सागरे निमग्नस्य बन्धनोच्छेदादूर्द्ध्वगामित्वं भवतीति। किञ्चान्यदागच्छतामपगच्छताञ्चावयवानामागमोपाधिधर्म-वत्त्वादेवानात्मत्वं शरीरादिवत्। ततश्चाव्यवस्थितः कश्चि-दवयवी आत्मेति स्यात्, न च स निरूपयितुं शक्यतेअयमसाविति। किञ्चान्यदागच्छन्तश्चैते जीवावयवाःकुतः प्रादुर्भवन्ति अपगच्छन्तश्च क्व वा लीयन्त इतिवक्तव्यम्। न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च लीये-रन् अभौतिकत्वाज्जीवस्य। नापि कश्चिदन्यः साधारणो-ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणा-भावात्। किञ्चान्यदनवधृतस्वरूपश्चैवं सत्यात्मा स्यात्आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणत्वात्,अत एवमादिदोषप्रसङ्गात् न पर्य्यायेणाप्यवयवोपगमाप-गमावात्मन आश्रयितुं शक्येते। अथ वा पूर्वेण सूत्रेणशरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिप-त्तावकात्र्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनःपर्य्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेनात्मनो नित्यता स्यात्, यथा रक्तपटादीनां विज्ञानान-वस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचानां (विवसनानाम्)अपीत्याशङ्क्यानेन सूत्रेणोत्तरत्तच्यते। सन्तानस्य ताव-दवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विका-रादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति”।

३ नग्ने त्रि॰
“दिगम्बरत्वेन निवेदितं वसु”। कुमा॰स्त्रियां गौरा॰ ङीष्।
“तथा चैव दिगम्बरी” काली-ध्यानम्
“ह्रीरूपाऽपि दिगम्बरी त्रिजगतां माताऽपिसद्यौवना” कालीस्तवः। दिगेवाम्बरम्।

४ दिग्रूपे अम्बरेदिक् च अम्बरञ्च समा॰ द्व॰।

५ दिगाकाशसमहारे चन॰
“आच्छादितायतदिगम्बरमुच्चकैर्गाम् माघः।

६ तमसिन॰ मेदि॰ स्वार्थे क। दिगम्बरक क्षपणके हारा॰। [Page3574-b+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिगम्बर¦ mfn. (-रः-रा-री-रं)
1. Naked, unclad, unclothed.
2. Dressed in, or enveloped by the atmosphere, clouds, &c. m. (-रं)
1. A Bauddha mendicant, wearing coloured clothes, or going naked.
2. Any mendicant not wearing clothes.
3. Darkness.
4. A name of SIVA, (from his being naked.)
5. A Jain of one great division, which represents the images of their saints, either naked or plainly attired. f. (-री) A name of DURGA. E. दिक् inflection of दिश् space, अम्बर vestment; whose only garment is the atmosphere. दिक् शून्य- मम्बरं यस्य |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिगम्बर/ दिग्--अम्बर mfn. " sky clothed " i.e. quite naked Bhartr2. iii , 90 Pan5c. v , 14

दिगम्बर/ दिग्--अम्बर m. (also -क)a naked mendicant ( esp. of the जैनor बौद्धsect See. 1. क्षपण) Prab. Vet. etc. MWB. 530 etc.

दिगम्बर/ दिग्--अम्बर m. N. of शिवor स्कन्दL.

दिगम्बर/ दिग्--अम्बर m. of a grammarian Gan2ar.

दिगम्बर/ दिग्--अम्बर m. darkness L.

"https://sa.wiktionary.org/w/index.php?title=दिगम्बर&oldid=291975" इत्यस्माद् प्रतिप्राप्तम्