सामग्री पर जाएँ

दिग्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिग्धः, पुं, (दिह्यते लिप्यते स्म विषादिना इति । दिह + क्तः ।) विषाक्तबाणः । तत्पर्यायः । लिप्तकः २ । इत्यमरः । २ । ८ । ८८ ॥ (यथा, रामायणे । २ । ३० । २३ । “सा विद्धा बहुभिर्वाक्यै र्दिग्धैरिव गजाङ्गना ॥”) स्नेहः । अग्निः । इति हेमचन्द्रः ॥ प्रवन्धः । इत्यजयपालः ॥

दिग्धः, त्रि, (दिह + क्तः ।) लिप्तः । इति मेदिनी । धे, ७ ॥ (यथा, भट्टिः । ३ । २१ । “सचन्दनोशीरमृणालदिग्धः शोकाग्निनागाद् द्युनिवासभूयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दिग्धः&oldid=140201" इत्यस्माद् प्रतिप्राप्तम्