दिधिषुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिधिषुः, पुं, (दिधिं धैर्य्यं स्यतीति । सो + बाहुल- कात् कुः । यद्वा, दिधिषूं आत्मन इच्छतीति । सुप आत्मनः क्यच् । क्विप् । बाहुलकात् ह्रस्वः ।) दिरूढापतिः । इत्यमरः । २ । ६ । २३ ॥ (गर्भा- धानकर्त्ता । यथा, ऋग्वेदे । १० । १८ । ८ । “हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥” “दिधिषोर्गर्भस्य निघातुः ।” इति तद्भाष्ये मायनः ॥ यथा च भागवते । ९ । ९ । ३५ । “ब्राजणी वीक्ष्य दिधिषुं पु रुषादेन भक्षितम् । शोचन्त्यात्मानमुर्व्वीशमशपत् कुपिता सती ॥” “दिधिषुं गर्भाधानकर्त्तारम् ।” इति श्रीधरः ॥) दिरूढायाम्, स्त्री । इति शब्दरत्नावली ॥ (धारके, त्रि । यथा, ऋग्वेदे । १० । ७८ । ५ । “अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।” “तथा दिधिषवो न वसूनां धारका इव ।” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिधिषुः [didhiṣuḥ], 1 The second husband of a woman married again or twice.
A suitor.
A husband; ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् Bhāg.9.9.35. -f. A virgin widow remarried.
