दिनबल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिनबलः, पुं, (दिने बलं यस्य ।) पञ्चमषष्ठसप्त- माष्टमैकादशद्बादशराशयः । इति ज्योतिषम् ॥ (सूर्य्यगुरुशुक्रग्रहाः । इति बृहज्जातकम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिनबल¦ पु॰ दिने बलं यस्य।
१ द्विपदराशिषु। ते च राशयःवृहज्जा॰ भट्टोत्पलयोरुक्ता यथा
“होरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटाःकेन्द्रस्था द्विपदादयोऽह्नि, निशि च प्राप्ते च सन्ध्याद्वये” मू॰
“वीर्योत्कटाः इत्यनुवर्त्तते द्विपदादयो द्विपदचतुष्पद-कीटाः यथाक्रममह्नि, निशि, प्राप्ते च सन्ध्याद्वये वीर्योत्कटाः भवन्ति अह्नि दिने द्विपदा बलिनः, निशिरात्रौचतुष्पदाः, सन्ध्याद्वये कीटाः। अत्र न केवलं वृश्चिकंकीटः यावदाप्याः कीटग्रहणेणैव ज्ञेयाः। तत्र च श्री-देवकीर्तिः
“मिथुनतुलाकुम्भकन्या दिवावला धन्विनश्चपूर्वार्द्धम्। अजवृषसिंहा रात्रौ मृगहययोः पूर्वपश्चार्द्धे। वृश्चिकमीनकुलोरा मकरान्त्यार्द्धं च सन्ध्यायामिति” भट्टो॰। एवं स्थिते शब्दक॰ पञ्चषष्ठादिराशीनां यद्दिनबलमुक्तं तन्मूलं चिन्त्यम्। दिने बलं यस्य।
२ सूर्यगुरु-शुक्रेषु ग्रहेषु यथाह वृहज्जा॰
“निशि शशिकुजसौराःसर्वदा ज्ञोऽह्नि, चान्ये, बहुलसितगताः ल्युः क्रूर-सौम्याः क्रमेण”
“शशिकुजसौराश्चन्द्रभौमशनयः निशिरात्रौ वीर्यवन्तो बलिनः, बुधः सर्वदा सर्वस्मिन् कालेनिशि दिने च बली, अन्ये परे रविगुरुसिता अह्नि दिनेबलिनः” भट्टो॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिनबल¦ m. (-लः) A name of certain signs of the zodiac, the fifth to the eighth; also the eleventh and twelfth. E. दिन, and बल strong.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिनबल/ दिन--बल m. " day-strength " , N. of the 5th-8th , 11th and 12th signs of the zodiac collectively L.