दिवाकीर्त्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिवाकीर्त्तिः, पुं, (दिवा दिवसे एव कीर्त्तिर्यस्य । रात्रौ क्षौरकर्म्मनिषेधात् ।) नापितः । चण्डालः । (“रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च । दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ॥” १० । ५४ । इति मनुवचनात् अस्य दिवाचर- त्वात् तथात्वम् ॥ यथा, मनुः । ५ । ८५ । “दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकन्तथा । शवन्तत् स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुध्यति ॥” तथाच काशीखण्डे । ७९ । ८७ । “दीक्षितो वा दिवाकीर्त्तिः पण्डितो वाप- पण्डितः । तुल्यो मे मोक्षदीक्षायां संप्राप्य मणिकर्णि- काम् ॥”) उलूकः । इति हेमचन्द्रः । ३ । ५९७ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिवाकीर्त्ति¦ पु॰ दिवैव कीर्त्तिः कृत्यं यस्य रात्रौ क्षुर-कर्मनिषेधात्।
१ नापिते अमरः।
२ चण्डाले हेमच॰। तस्य दिवाचरत्वात्तथात्वं दिवाचरशब्दे दृश्यम्।
“दिवा-कीर्त्तिमुदक्याञ्च पतितं सूतिकां तथा। शवं तत्स्मृ-ष्टिनं स्पृष्ट्वा स्नानेनैव विशुध्यति” मनुना तस्यास्पृश्यत्व-मुक्तम्। दिवाऽकीर्त्तिर्यस्य। उलूके पेचके हेमच॰। [Page3586-b+ 38] दिवा तस्य नामोच्चारद्वे हि तस्य भक्ष्यद्रव्ये तिक्तता जायतेइति लोकसिद्धत्वात् तन्नाम्नो न दिवाकीर्त्तनीयता।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिवाकीर्त्ति¦ m. (-र्त्तिः)
1. A man of a low or impure caste, a Chandala.
2. A barber.
3. An owl. E. दिवा by day, and कीर्त्ति credit, (the bar- ber is not allowed to operate at night,) or दिवा day, अकीर्त्ति dis- repute; the Chandala and owl coming abroad only in the dark. दिवा एव कीर्त्तिः कृत्यं यस्य रात्रौ क्षुरकर्मनिषेधात् नापिते चण्डाले पेचके च |
