दिविषत्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिविषत्, [द्] पुं, (दिवि सीदतीति । सद् + क्विप् । सप्तम्या अलुक् । षत्वञ्च ।) देवः । इत्यमरः । १ । १ । ८ ॥ (यथा, गीतगोविन्दे । ९ । ११ । “सान्द्रानन्दपुरन्दरादिदिविषद्बृन्दैरमन्दादरा- दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दी- वरम् ॥” स्वर्गवासिनि, त्रि । यथा, अथर्ववेदे । १८ । ४ । ८० । “स्वधा पितृभ्यो दिविषद्भ्यः ॥”)
