सामग्री पर जाएँ

दिवोदासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिवोदासः, पुं, (दिवः स्वर्गात् दासो दानं यस्मे ।) काशीराजः । स चन्द्रवंशीयभीमरथराजपुत्त्रः । इति पद्मपुराणम् ॥ (“अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा । आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि ॥ नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति क्षितौ ॥” “वत्स ! वाराणसीं गच्छत्वं विश्वेश्वरवल्लभाम् ॥ तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः ॥” “अथ धन्वन्तरिं सर्व्वे वानप्रस्थाश्रमे स्थितम् । भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ॥ काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः । स्वागतञ्च इति स्माह दिवोदासो यशोधनः ॥ कुशलं परिपप्रच्छ तथागमनकारणम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “अथ खलु भगवन्तममरवरमृषिगणवरिवृत- माश्रमस्थं काशिराजं दिवोदासं धन्वन्तरि- मौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य्यगोपुर- रक्षितसुश्रुतप्रभृतय ऊचुः ।” इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिवोदासः [divōdāsḥ], N. of a reputed Vedic king, father of सुदास; Rv.7.18.25.

"https://sa.wiktionary.org/w/index.php?title=दिवोदासः&oldid=294094" इत्यस्माद् प्रतिप्राप्तम्