सामग्री पर जाएँ

दिव्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिव्यः, त्रि, (दिवि भवः । यत् ।) मनोज्ञः । दिवि भवः । इति मेदिनी । ये, ३१ ॥ (यथा, विष्णु- पुराणे । १ । ९ । १०४ । “दिव्यमालाम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्व्वदेवानां ययौ वक्षःस्यलं हरेः ॥”)

दिव्यः, पुं, (दिवे वने भवः । दिव + यत् ।) यवः । गुगगुलुः । इति राजनिर्घण्टः ॥ भावविशेषः । यथा, -- “शृणु भावत्रयं देवि ! दिव्यवीरपशुक्रमात् । दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः ॥ सत्यत्रेतार्द्धपर्य्यन्तं दिव्यभावविनिर्णयः । त्रेताद्वापरपर्य्यन्तं वीरभाव इतीरितम् ॥ मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव च । श्मशानसाधनं भद्रे ! चितासाधनमेव च ॥ एतत्ते कथितं सर्व्वं दिव्यवीरमतं प्रिये ! । दिव्यवीरमतं नास्ति कलिकाले सुलोचने ! ॥” इति कालीविलासतन्त्रम् ॥ नायकभेदः । यथा, -- “यत्तु तासां दिव्या अदिव्या दिव्यादिव्याभेदेन गणनया द्बिपञ्चाशदधिकशतयुतसहस्रं भेदा भवन्ति । दिव्या इन्द्राण्यादयः । अदिव्या मालत्यादयः । दिव्यादिव्या द्रौपद्यादय इति वदन्ति तन्न तत्र अवस्थाभेदेनैव नायिकानां भेदात् जातिभेदेन भेदस्वीकारे अनन्तनायिका- नामिव नायकानामप्यानन्त्यं स्यात् । तथा हि इन्द्रादयो दिव्याः । अदिव्या माधवादयः । दिव्यादिव्या अर्ज्जुनादयः ।” इति रसमञ्जरी ॥ (सात्वतस्य पुत्त्राणामन्यतमः । यथा, भागवते । ९ । २४ । ६ । “भजमानो भजिर्दिव्यो वृष्टिर्देवावृधोऽन्धकः । सात्वतस्य सुताः सप्त महाभोजश्च मारिष ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=दिव्यः&oldid=140316" इत्यस्माद् प्रतिप्राप्तम्