दिव्यकुण्डम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिव्यकुण्डम्, क्ली, (दिव्यं पुण्यप्रदत्वादत्युत्कृष्टं कुण्ड- मिति कर्म्मधारयः ।) कामरूपे क्षोभकशैल- पूर्ब्बभागस्थपुष्करिणीविशेषः । यथा, -- “तद्दक्षिणे महाशैलः क्षोभको नाम नामतः । तस्मिन् गिरौ शिलापृष्ठे वक्त्रे देवी व्यवस्थिता ॥ पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी । एकत्र पञ्चभिर्दुर्गायोनिभिः पञ्चवक्त्रकम् ॥ स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा । तच्छैलपूर्ब्बभागात्तु कान्ता नाम महानदी ॥ दक्षिणं सागरं याति प्रथमा चोत्तरस्रवा । दिव्यकुण्डं महाकुण्डं तच्छैलोपत्यकां गता । संस्थितस्तत्र स्नात्वा तु तां देवीं परिपूजयेत् । दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करिणीं शिवाम् ॥ यः पूजयेन्महाभागः स योनौ न हि जायते ॥” इति कालिकापुराणे ८१ अध्यायः ॥
