सामग्री पर जाएँ

दिव्यचक्षुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिव्यचक्षुः, [स्] त्रि, (दिव्यमलौकिकं चक्षुर्यस्य ।) ज्ञानचक्षुः । यथा, नीलकण्ठस्तोत्रे । “नमस्तुभ्यं विरूपाक्ष ! नमस्ते दिव्यचक्षुषे ।” क्ली, ज्ञानात्मकचक्षुः । यथा, -- “न तु मां शक्यते द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥” इति श्रीभगवद्गीतायाम् । ११ । ८ ॥ “अतो दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥ (दिव्यं स्वर्गीयं मनोज्ञं वा चक्षुः ।) स्वर्गीयचक्षुः । सुन्दरलोचनम् । उपचक्षुः । चस्मा इति भाषा । इति लोकप्रसिद्धम् ॥ (पुं, दिव्यं मनोज्ञं चक्षुर्यस्य । यद्बा, दिव्यं चक्षुर्ज्ञाननेत्रं यस्मात् । ऊर्णनाभस्य सूत्रसर्ज्जनग्रहणमवलोक्येश्वरस्य सर्ज्जनसं हरणपरिज्ञानात् तथात्वम् ।) मर्कटः । इति शब्दमाला ॥ सुगन्धभेदः । त्रि, (दिव्ये आकाशभूते चक्षुषा यस्य ।) अन्धः । (दिव्ये सुन्दर चक्षुषी यस्य ।) सुलोचनः । इति मेदिनी । से, ६८ ॥

"https://sa.wiktionary.org/w/index.php?title=दिव्यचक्षुः&oldid=140325" इत्यस्माद् प्रतिप्राप्तम्