दिव्यौघ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिव्यौघः, पुं, (दिव्यानां स्वर्गीयगुणानामोघः समूहो यत्र ।) गुरुविशेषः । यथा, शक्तिरत्नाकरतन्त्रे । “महादेवो महाकालस्त्रिपुरश्चैव भैरवः । दिव्यौघा गुरवः प्रोक्ताः सिद्धौघान् कथयामि ते ॥” अपि च । “अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् । ऊर्द्धकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥ दिव्यौघान् सिद्धिदान् वत्स ! शृणुष्वावहितो सुदा ॥” अपिच । “शृणु वत्स ! महादेव ! गुरून् दुर्गामनूद्भवान् । परमात्मा परानन्दः परमेष्ठी शुभोदयः ॥ कृष्णः कालः कलानाथो दिव्यौघा भैरवा- दिकाः ॥” इति तन्त्रसारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिव्यौघ¦ पु॰ तन्त्रोक्ते गुरुभेदे।
“महादेवो महाकालस्त्रि-[Page3597-a+ 38] पुरश्चैव भैरवः। दिव्यौघा गुरुवः प्रोक्ताः सिद्धौघान्कथयामि ते”। इति शक्तिरत्नाकरतन्त्रम्।
“अथ तारा-गुरून् वक्ष्ये दृष्टादृष्टफलप्रदान्। ऊर्द्धकेशो व्योमकेशीनीलकण्ठोवृषध्वजः। दिव्यौघान् सिद्धिदान् वत्स!शृणुष्वावहितो मुदा”।
“शृणु वत्स! महादेव!गुरून् दुर्गामनूद्भवान्। परमात्मा परानन्दः परमेष्ठीशुभोदयः। कृष्णकाल! कालनाथो दिव्यौघा भैरवादि-काः” तन्त्रसारे देवताभेदात्तद्भेदा उक्ता
२ रुचिरौषधौ च
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दिव्यौघ/ दिव्यौ m. pl. " the -ddivine hosts " , forms of शिवand दुर्गा(with the शाक्तs) L.