सामग्री पर जाएँ

दिष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दिष्टम्, क्ली, (दिशति इष्टानिष्टफलं ददातीति । दिश + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तः ।) भाग्यम् । इत्यमरः । १ । ४ । २८ ॥ (यथा, महाभारते । १४ । ५३ । १६ । “ततस्ते निघनं प्राप्ताः सर्व्वे ससुतबान्धवाः । न दिष्टमत्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ॥” दिश + कर्म्मणि क्तः ।) उपदिष्टे, त्रि । इति त्रिकाण्डशेषः ॥ (कथिते च । यथा, भट्टौ । २ । ३२ । “गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचनमस्त्रचुञ्चुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दिष्टम्&oldid=140366" इत्यस्माद् प्रतिप्राप्तम्