दीक्षितः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीक्षितः, त्रि, (दीक्ष + कर्त्तरि क्तः । यद्बा, दीक्षा सञ्जाता अस्येति । तारकादित्वात् इतच् ।) सोमपानविशिष्टयागकर्त्ता । यथा । स सोम- वति दीक्षितः । इत्यमरः । २ । ७ । ८ ॥ “स व्रती सोमपानवति अध्वरे यजमानः सन् दीक्षित उच्यते । अन्यत्राप्युपचारात् । दीक्ष मौण्ड्ये- ज्योपनयनव्रतादेशेषु क्तः दीक्षाशब्दादितो वा ।” इति तट्टीकायां भरतः ॥ * ॥ गुरुमुखाद्- गृहीतमन्त्रः । यथा, -- “अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः । न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत् ॥ देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥ अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् ॥” इति तन्त्रसारः ॥ * ॥ काम्पिल्लनगरस्थयज्ञदत्तनामकव्राह्मणः । यथा, “आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः । दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदाः ॥ वेदवेदाङ्गवेदार्थवेदोक्ताचारचञ्चुरः । राजमान्यो बहुघनो वदान्यः कीर्त्तिभाजनः ॥ अग्निशुश्रूषणरतो वेदाध्वयनतत्परः ॥” इति स्कान्दे काशीखण्डे गन्धवत्यलकावर्णनं नाम १३ अध्यायः ॥ * ॥ (स्वीकृतदीक्षः । यथा, महाभारते । २ । ७३ । १ । “ततः पराजिताः पार्था वनवासाय दीक्षिताः । अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥”)
