सामग्री पर जाएँ

दीदिविः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीदिविः, पुं क्ली, (दिव्यन्त्यनेनेति । दिव + “दिवो द्वे दीर्घश्चाभ्यासस्य ।” उणां । ४ । ५५ । इति क्विन् अभ्यासस्य दीर्घश्च ।) अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ (दिव्यतीति क्विन् ।) बृहस्पतौ, पुं । इति मेदिनी । वे, ३७ ॥ (स्वर्गे भक्ष्ये च । इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥)

दीदिविः, त्रि, (दिव् + क्विन् ।) उदितः । इति शब्दरत्नावली ॥ (पुनपुनर्द्योतकः । यथा, ऋग्- वेदे । १ । १ । ८ ॥ “राजन्तमध्वराणां गोपामृतस्य दीदिविम् ॥” “दीदिविं पौनःपुन्येन भृशं वा द्योतकम् ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=दीदिविः&oldid=140390" इत्यस्माद् प्रतिप्राप्तम्