दीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीनः, त्रि, (दीयते स्मेति । ओ दीङ् क्षये + “गत्यर्थाकर्म्मकेति ।” ३ । ४ । ७२ । इति कर्त्तरि क्तः । “ओदितश्च ।” ७ । २ । ४५ । इति निष्ठा- तस्य नः । यद्वा, दी + “इण्षिञ्जिदीङुष्य- विभ्यो नक् ।” उणां । ३ । २ । इति नक् ।) दरिद्रः । इत्यमरः । ३ । १ । ४९ ॥ (यथा, मनौ । ९ । २३८ । “चरेयुः पृथिवीं दीनाः सर्व्वधर्म्मवहिष्कृताः ॥”) भीतः । इति मेदिनी । ने, २१ ॥ (दुःखितः । यथा, रघुः । २ । २५ । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”)
