दीपकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपकम्, क्ली, (दीपयतीति । दीप् + णिच् + ण्वुल् ।) वाक्यालङ्कारः । दीप्तिकारके, त्रि । इति मेदिनी । के, १०४ ॥ कुङ्कुमम् । इति शब्दरत्नावली ॥ * ॥ वाक्यालङ्कारस्य लक्षणं यथा, -- “पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्म्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते । अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ॥ यथा, माघे । बलावलेपादधुनापि पूर्ब्बवत् प्रसाध्यते तेन जगज्जिगीषुणा । सती च योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥” इति साहित्यदर्पणे । १० । ६७ ॥ अपि च काव्यचन्द्रिकायाम् । “जातिक्रियागुणद्रव्यवाचकेन पदेन तु । एकत्र वर्त्तिना सर्व्ववाक्यार्थो दीपकम्भवेत् ॥” यथा, -- भ्रमद्भ्रमरझङ्कारपुंस्कोकिलकलध्वनिः । मन्दचन्दनवातोऽपि हरन्ति हृदयं नृणाम् ॥”
